सत्यप्रियता
(डॉ. विधानचन्द्र राय की सत्यनिष्ठा)
विधानचन्द्ररायः श्रेष्ठः राजनीतिज्ञः चिकित्कश्च आसीत् । भारतरत्नबिरुदभाक्सः पश्चिमबङ्गालस्य मख्यमंत्री आसीत । अत्यन्तं बद्धिमान स: छात्रदशायां प्रत्येक परीक्षायाम् अपि प्रथमस्थानं प्राप्नोति स्म । परं च एकदा सः महाविद्यालये परीक्षायाम् अनुत्तीणः जातः । … एकदा विधानचन्द्रः महाविद्यालयस्य मुख्यद्वारस्य पुरतः स्थितवान् आसीत् । तस्मिन् समये एव महाविद्यालयस्य प्राचार्य: स्वीयं यानं चालयन् महाविद्यालयम् आगच्छन् आसीत् । प्राचार्यः अजागरूकमतया वाहनं चालितवान्, येन मार्गे गच्छतः एकस्य पथिकस्य घट्टनं कृतं तस्य यानेन । सः पथिकः आहतः भूत्वा भूमौ पतितः । दैवकृपया तस्य प्राणा: रक्षिताः।
**अर्थ:** विधानचन्द्र राय श्रेष्ठ राजनीतिज्ञ और चिकित्सक थे, जो भारतरत्न से विभूषित थे और पश्चिम बंगाल के मुख्यमंत्री रहे। वे छात्र जीवन में प्रत्येक परीक्षा में प्रथम स्थान पाते थे, लेकिन एक बार वे महाविद्यालय परीक्षा में फेल हो गये। … एक बार विधानचन्द्र महाविद्यालय के प्रवेश द्वार के सामने खडे थे। उसी समय कॉलेज के प्राचार्य अपनी गाड़ी चलाते हुए आये। प्राचार्य ने असावधानी से वाहन चलाया, जिससे **रास्ते पर जाते हुए एक राही को धक्का मार दिया** और वह घायल होकर गिर गया।
तदा एव तत्र आगतः आरक्षकः प्राचार्यस्य विरुद्धं प्रकरणं पजीकृतवान् । विधानचन्द्रः प्राचार्यस्य एव विद्यार्थी । अस्याः घटनायाः प्रत्यक्षदर्शी सः एकः एव आसीत्। ‘मदीय छात्रः मम विरुद्धं न्यायालये साक्ष्यं न वदिष्यति’ इति प्राचार्यस्य दृढः विश्वासः आसीत् । परं **विधानचन्द्रः न्यायालये सत्यमेव अवर्णयत्** । तेन न्यायाधीशः प्राचार्य दण्डितवान् । प्राचार्यः क्रुद्धः जातः । तस्य मनसि विधानचन्द्रस्य विषये दुर्भावना उत्पन्ना।
**अर्थ:** उसी समय सिपाही आया और प्राचार्य के विरुद्ध केस लिख लिया। विधानचन्द्र घटना के प्रत्यक्षदर्शी (गवाह) थे। प्राचार्य को दृढ विश्वास था कि ‘मेरा छात्र मेरे विरुद्ध कोर्ट में गवाही नहीं देगा।’ लेकिन **विधानचन्द्र ने न्यायालय में सही-सही कह दिया** जिससे न्यायाधीश ने प्राचार्य को दण्डित किया। प्राचार्य गुस्सा हो गये और उनके मन में विधानचन्द्र के विषय में दुर्भावना उत्पन्न हो गयी।
तस्मिन् वर्षेऽपि वार्षिकपरीक्षायां विधानचन्द्रेण उत्तराणि सम्यक् एव लिखितानि । परं सः न्यूनान् अङ्कान् प्राप्तवान् । **परीक्षायाम् अनुत्तीर्णश्च जातः** । विधानचन्द्रः एतस्य कारणं ज्ञातवान् । तथापि सः तस्मिन् विषये किमपि न उक्तवान् । अनन्तवरचे पुनरपि परीक्षा लिखित्वा उत्तमैः अर उत्तीर्णः जातः।
**अर्थ:** उस वर्ष भी वार्षिक परीक्षा में विधानचन्द्र के द्वारा उत्तर सही ही लिखे गये। परन्तु वे कम अंक प्राप्त किए तथा **परीक्षा में फेल हो गये।** विधानचन्द्र इसका कारण भी जान गये, इसके बाद भी वे उस विषय में कुछ नहीं बोले। दूसरे वर्ष पुनः परीक्षा में लिखकर उत्तम अंक से उत्तीर्ण हुए।
प्राचार्यः विधानचन्द्रम् आहूय प्रोक्तवान्-“विगते वर्षे भवान् परीक्षायाम् असफलतः जातः । एतस्य कारणं जानाति किम् ? इति । “आम, जानामि । विगते वर्षे न्यायालये मया सत्यवचनम् उक्तम भवान् क्रुद्धः जातः । मां न्यूनान् दत्तवान् । अतः अहम् अनुतण: जातः । भवतु नाम । **सत्यप्रियतायाः रक्षणे एकस्य वर्षस्य हानिः न महति**” इति। एतत् श्रुत्वा सः प्राचार्य: नितरां विस्मितः जातः । स्वस्य छात्रस्य पुरतः स्वयमेव लज्जितश्च अभवत् ।
**अर्थ:** प्राचार्य ने विधानचन्द्र को बुलाकर कहा- “विगत वर्ष में आप परीक्षा में असफल रहे। कारण जानते हो क्या?” **”हाँ, जानता हूँ।** विगत वर्ष में न्यायालय में मेरे द्वारा सत्य वचन बोला गया, जिससे आप गुस्सा हो गये। मुझे कम अंक दिए जिससे मैं फेल हो गया। यह आपका काम था। **सत्यप्रियता की रक्षा करने में एक वर्ष की हानि कोई बड़ी हानि नहीं है।**” यह सुनकर वह प्राचार्य अत्यन्त आश्चर्य में पड़ गया और अपने ही छात्र के सामने वह स्वयं ही लज्जित हो गया।
