समयप्रज्ञा
(समय की पहचान)
कश्चन गामः आसीत् । तत्र कश्चन युवकः आसीत् । तस्य नाम दुर्गादासः । सः बुद्धिमान् । एकदा सर्वे ग्रामीणाः रात्री निद्रायां मानाः आसन् । तदा कृतश्चित् **‘चोरः चोरः’ इति आक्रोशध्वनिः श्रुतः** । सर्वेऽपि ग्रामीणा: तत् श्रुत्वा त्वरया उत्थाय लवित्रं, दण्डः-इत्यादीनि आयुधानि स्वीकृत्य यतः ध्वनिः श्रुतः तत्र समायाताः।। तत्र दुर्गादासं दृष्ट्वा सर्वे-“चोरः कुब अस्ति ? “इति पृष्ठवन्तः । दुर्गादासः समीपे स्थितं न्यग्रोध-वृक्षं दर्शितवान् ।
**अर्थ:** एक गाँव था, जहाँ दुर्गादास नामक एक बुद्धिमान युवक रहता था। एक रात जब सभी ग्रामीण सो रहे थे, तब कहीं से **’चोर! चोर!’** की आवाज सुनाई पड़ी। सभी ग्रामवासी वह सुनकर शीघ्रता से उठकर लम्बे-लम्बे डण्डे इत्यादि हथियार लेकर आवाज की दिशा में आ गये। वहाँ दुर्गादास को देखकर सबों ने पूछा- “चोर कहाँ है?” दुर्गादास ने निकट के **बरगद वृक्ष (न्यग्रोध-वृक्ष)** को दिखाया।
चन्द्रस्य प्रकाशे कोऽपि चोरः न दृष्टः । किन्तु तत्र वृक्षमूले कश्चन **व्याघ्रः आसीत्** । सः लंघनं कृत्वा तत: धावितुम् उद्युक्तः आसीत् । तदा एव तेषु जनेषु अन्यतमः, “केभ्यश्चित् दिनेभ्यः पूर्वम् अन्धकारे एकः जनः अनेन एव मारितः । अपरः प्रण्धिातः कृतः । एषः अवश्यं मारणीयः” इति उक्तवान्। अनुक्षणमेव जनाः तुदपरि पाषाणखण्डान् क्षिप्तवन्तः । सः व्याघ्रः वृक्षमूलतः कर्दनम् अकरोत् । सर्वे मिलित्वा लवित्रैः दण्डैश्च ताडयित्वा तं व्याघ्र मारितवन्तः ।
**अर्थ:** चन्द्रमा के प्रकाश में कोई चोर नहीं दिखाई पड़ा। किन्तु उस पेड़ की जड़ में कोई **बाघ** था। वह उठकर भागने के लिए तैयार था। तभी एक व्यक्ति ने कहा कि कुछ दिन पहले इसी ने एक आदमी को मार दिया था, इसे अवश्य मारना चाहिए। उसी समय लोगों ने उस पर पत्थर के टुकड़े फेंकने लगे। सबों ने मिलकर भाले और डण्डे से पीटकर उस बाघ को मार दिया।
अनन्तरं जनाः दुर्गादासं दृष्ट्वा-“किं भोः ! नरमांसभक्षकः व्याघ्रः आगतः । भवान् तु **‘चौरः चोरः’ इति किमर्थम् आक्रोशं कृतवान्** ?” इति पृष्टवन्तः।। दुर्गादासः मन्दहासपूर्वकं— “यदा अहं ‘चोरः चोरः’ इति आक्रोशं कृतवान् तदा भवन्तः सर्वे आयुधैः सह गृहात् बहिः आगतवन्तः । पर यदि अहं **‘व्याघ्रः व्याघ्रः’ इति आक्रोशम् अकरिष्यं तर्हि किं भवन्तः सर्वे आगमिष्यन् ? गृहद्वारणि सम्यक कीलयित्वा अन्तः एव अस्थास्यान्** । अतः एव अहं ‘चोरः चोरः’ इति अक्रुष्टवान्” इतिज उक्तवान् ।सर्वे जनाः दुर्गादासस्य समयप्रज्ञा प्लाधितवन्तः ॥
**अर्थ:** इसके बाद लोगों ने दुर्गादास को देखकर पूछा— “क्यों! नर मांसभक्षी बाघ आया था, लेकिन तुमने **’चोर-चोर’** कहकर क्यों हल्ला किया?” दुर्गादास धीरे से मुस्कुराते हुए बोला— “जब मैंने ‘चोर-चोर’ कहकर हल्ला किया तब आप लोग सभी हथियार के साथ घर से बाहर आये। लेकिन यदि मैं **’बाघ-बाघ’ कहकर हल्ला करता तो क्या आप लोग आते?** घर के दरवाजे को सही ढंग से बंद कर भीतर ही रह जाते। इसीलिए मैंने ‘चोर-चोर’ कहकर हल्ला किया।” सभी लोगों ने **दुर्गादास की समय पर बुद्धि (समयप्रज्ञा)** के प्रयोग की प्रशंसा की।
यह कहानी सिखाती है कि **विकट परिस्थितियों में तुरंत और बुद्धिमानी** से निर्णय लेना आवश्यक है।
